वांछित मन्त्र चुनें

त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै । ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्य॑: ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai | yayor devo na martyo yantā nakir vidāyyaḥ ||

पद पाठ

त्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै । ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥ १०.२२.५

ऋग्वेद » मण्डल:10» सूक्त:22» मन्त्र:5 | अष्टक:7» अध्याय:7» वर्ग:6» मन्त्र:5 | मण्डल:10» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वं चित्) हे ऐश्वर्यवन् परमात्मन्। तू ही (वातस्य) प्राण के (त्या-ऋज्रा-अश्वा) उन ऋजुगामी गतिशील शरीर में व्यापक प्राण, अपान, श्वास, प्रश्वास (वहध्यै) वहने चलाने के लिए (त्मना-अगाः) स्वकीयरूप से चलाता है (ययोः-यन्ता) जिन श्वास-प्रश्वासों को चलानेवाला (देवः-न मर्त्यः) न मुमुक्षु और न मरणधर्मा साधारण जन है (नकि-विदाय्यः) न कोई वेत्ता न ज्ञाता है ॥५॥
भावार्थभाषाः - प्राण के ऋजुगामी श्वास-प्रश्वासों को चलाने के लिए परमात्मा तू ही समर्थ है। तुझसे अतिरिक्त न कोई मुमुक्षु, न कोई इसका ज्ञाता ही है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वं चित्) हे ऐश्वर्यवन् परमात्मन् ! त्वं हि, चित् पूजायामत्र “आचार्यश्चिदिदं ब्रूयादिति पूजायाम्” [निरु० १।४] (वातस्य) प्राणस्य (त्या-ऋज्रा-अश्वा) तावृजुगामिनौ गतिमन्तौ शरीरे व्यापिनौ प्राणापानौ श्वासप्रश्वासौ (वहध्यै) वहनाय चालनाय (त्मना-अगाः) स्वीयस्वरूपतः-गमयास ‘अन्तर्गतणिजर्थः’ (ययोः-यन्ता) ययोः प्राणापानयोः श्वासप्रश्वासयोर्यमयिता चालयिता (देवः-न मर्त्यः) न मुमुक्षुर्न मरणधर्मा साधारणजनोऽस्ति  (नकिः-विदाय्यः) न कश्चिद् वेत्ता ज्ञाताऽस्ति ॥५॥